Integrated Shree Vaishnav Academy for Renaissance

Integrated Shree Vaishnav Academy for Renaissance

Share

अध्यक्ष:- श्रीमद् जगद्गुरू स्वामी दामोदरप्रपन्नाचार्य जी महाराज (दुर्गेश द्विवेदी)

13/12/2025

बिहार विधानसभा अध्यक्ष डाॅ प्रेम कुमार को तत्त्वोपदेश देते हुए पूज्य स्वामी जी महाराज।।

02/05/2025

वन्दे वेदान्तकर्पूरचामिकरकरण्डकम् ।
रामानुजार्यमार्याणाम् चूड़ामणिमहर्निशम् ।।

विशिष्टाद्वैतराद्धान्त संरक्षणपरायणम् ।
श्रीमद् रामानुजार्यणां वन्दे पदाम्बुज़द्वयम् ।।

नास्ति तिरोहितमिदं विपश्चितपश्चिमेभ्यो यदाखिला हि-भारतीया संस्कृति: सदाचार वर्णाश्रम धर्म नित्यनैमित्तिक कर्मानुष्ठानादि प्रधाना वर्तते ।अस्या: संस्कृतेर्मूलम ज्ञानराशिर्वेद:।वेदो हि भागद्वयात्मको विद्यते संहितात्मक:ब्राह्मणग्रंथात्मकश्च ।अतएव हि महर्षि:कात्यायन:प्राह-मंत्र ब्राह्मण्योर्वेदनामधेयमिति ।तत्रानुष्ठेयानाम् सदाचार सम्पोषकानां वर्णाश्रमधर्मस्य चानुष्ठेयानाम् अर्थानां विशदम् विवेचनम् विद्यते संहितात्मके भाग:।तत्वज्ञानप्रधानं हि ब्राह्मण भागो वरिवर्ति ।श्रीमद्विशिष्टाद्वैतदर्शनापराभिधानं रामानुजदर्शनं हि साङ्गोपाङ्गाया: भारतीय संस्कृते: समर्थ समर्थनं कुर्वत- तस्या: विशदं विवेचनं करोति । इदमेव दर्शनं वर्तते यस्य समे सिद्धान्ता:आचारप्रधाना: तत्त्वप्रधानाश्च सन्ति ।दर्शनमिदं सर्वेषां वर्णानां आश्रमाणां च यथायथं विवेचनं करोति ।मानवजीवनमिदं केवलमाहरविहारैश्वर्याद्यनुभव परमेवनास्ति ।अपितु अस्या: उपयोग: समाजसेवायां विहित स्वधर्मस्य पालने परोपकारादि कर्म स्वेव साफल्यं भजते ।-अपूर्वादेहसम्पत्तिरीश्वराय निवेदितुम ।
पूर्वमेवकृता राजन् हस्तपादादि संयुता ।।इति
उभयविभूतिनायक: स्वेतरसमस्तानां समेषां पदार्थानां जीवानां च संरक्षक: धर्मार्थकाममोक्षाख्यपुरुषार्थानां सर्वेभ्य:समुपासकेभ्य: प्रदाता श्रीभगवानेव स्वकर्तव्यपालन रूपेण कर्मणा सेवनीय: इत्युपदिशतीदं दर्शनम् ।सकलेषु जीवेषु परमात्मनो बाह्याभ्यन्तर व्याप्ति वर्तते ।अतएव कस्यापि अनयेन अवमाननादिकरणमनुचितमस्तीति दर्शनस्यास्य मान्या: मान्यता ।अस्य रामानुजदर्शनस्यातीतम तीव गौरवमयं विद्यते।अस्याद्योपदेष्टा भगवान लक्ष्मीनारायणो ऽ स्तीति वक्ति- लक्ष्मीनाथ समारम्भां नाथयामुन मध्यमाम् ।
अस्मदाचार्य पर्यंन्तां वन्दे गुरुपरम्पराम् ।। इति श्लोकरत्नम् ।अनेन श्लोकेन ज्ञायते यत् श्रीभगवानेव प्रप्रथमम् रहस्यत्रयस्यायस्योपदेशमकार्षित्। अस्य रहस्य त्रयस्य प्रथमं रहस्यं वर्तते यत् सर्वेषु चेतनाचेतनेषु परमात्मनो व्याप्ति वर्तते ।वक्ति च श्रुति:- यच्च किञ्च जगत्यस्मिन् दृश्यते श्रुयतेऽपि वा ।अन्तर्वहिश्च तत्सर्वं ब्याप्य नारायण: स्थित:।।स च भगवान अखिलास्यास्य जगतोमूलम् । वक्ति च छान्दोग्य श्रुति:-सन्मूला: सोम्यमा: सर्वा: सत्प्रतिष्ठा । इति द्वितीयस्य रहस्यस्य सारांशोंऽस्ति यत् परमात्मा सदा सर्वविधैश्वर्य सम्पन्न: सदा सद्भि: आत्मोज्जीवनं कामायमानै: सेवनीय:।सम्पूर्णमिदं जगत् परमात्मान: शरीरभूतम् ।अस्य दर्शनस्य अन्तिम रहस्यस्याभिप्रायोऽस्ति यत् -परमात्मैव निरूपाधिको रक्षक:।अतएव स एव शरण्यत्वेन वरणीय:।भगवतोनन्तरम्-“भूतं सरश्च महदाह्वय भट्टनाथ श्रीभक्तिसार कुलशेखर योगीवाहान्।भक्तांघ्रिरेणु परकाल यतीन्द्रमिश्रान् श्रीमत् परांकुशमुनिंप्रणतोऽस्मि नित्यम्।।”इति श्लोके उद्दिष्टा: द्वादशाल्वारा: अस्य दर्शनस्य स्वप्रबन्धानां माध्यमेन प्रचुरं प्रचारमकार्षु:।तदनन्तरम्- श्री नाथमुनि:श्रीमद् यामुनाचार्य:,श्री रामानुजाचार्यादिका: आचार्या: अस्य दर्शनस्य स्व साहित्यस्य माध्यमेन पूर्णं प्रचारं चक्रु:।इदं दर्शनं पूर्णरूपेण वैदिकं सत् भारतीय संस्कृते:प्रधानमङ्गं सदाचार पालनम् यद् वर्तते तस्यैव प्रधानतामुदघोषयति शास्त्र समर्थितानाम् कृत्यानां करणम् अकृत्यानाञ्च परित्यागमुपदिशति इदं दर्शनम् ।सर्वै: कल्याणकामै: पुरुषैः समुचितरूपेण त्रिवर्गस्य पालन पूर्वकम् आविर्भूतगुणाष्टकतारूप स्व स्वरूपाविर्भावाय यतनीयमिति दर्शनस्यास्य प्रधान: सिद्धान्तः ।नूनं साम्प्रतं दर्शनस्यावस्थाम्लानतांगता इव वर्तते । अस्य दर्शनस्य अध्येतृणां सिद्धान्ताभिज्ञानाञ्च सांख्यात्यल्पीयसी साम्प्रतं संजाता।तदर्थमस्माभि: सावधानै: सक्षणैर्भाब्यमिति अहं सर्वान् युष्मान् प्रार्थयन् ।
“रामानुजो विजयते यतिराजराज:”
जय जय श्रीभाष्यकार

भगवान रामानुज स्वामी जी महराज की जय

06/04/2025

चैत्रमासे सितेपक्षे नवम्याम् शुभवासरे ।
भगवान रामचन्द्रोऽसवद्ययोध्यामावातरत्।।।
चकार भक्तकार्याणि नाशयामास राक्षसान्।
सर्वान् भारतीयांश्च ररक्ष कृपया प्रभु ।
तथाविधेऽस्मिनवसरे सर्वान् भवतो शुभम् ।।
भगवच्चरण्यो: पार्श्वे मनसा कामये मुदा ।
अस्या परिषद: सर्वे भक्ता: भगवता: सदा ।
आनन्दानन्द सन्दोंऽहं लभन्तामिति प्रार्थये ।।

श्री रामनवमी की हार्दिक अनंतानन्त शुभकामनाएँ ….🙏

03/02/2025

बसंत पंचमी की हार्दिक शुभकामनाएं

26/01/2025

#2025

14/01/2025

मकर संक्रांति की हार्दिक शुभकामनाएं।।

31/12/2024
श्रीभाष्य(पाठ १)#श्री सम्प्रदाय #श्रीमद् विशिष्टाद्वैत दर्शन 13/11/2024

श्री सम्प्रदाय का गौरव ग्रन्थ “श्री भाष्य “पर कालक्षेप करते हुए पूज्य श्री स्वामी जी

श्रीभाष्य(पाठ १)#श्री सम्प्रदाय #श्रीमद् विशिष्टाद्वैत दर्शन

12/10/2024

“वेद शास्त्रनिष्ठ “प्रवचन के पश्चात् भक्तों के बीच से विदा लेते हुए पूज्य श्री स्वामी दामोदरप्रपन्नाचार्य जी महाराज

Want your public figure to be the top-listed Public Figure in Patna?
Click here to claim your Sponsored Listing.

Category

Website

Address


Patna